વેદ વાણી
ईशा वास्यमिदं सर्वं यत्किंच जगत्यां जगत् ।
तेन त्यक्तेन भुज्जीथा मा गृधः कस्य स्विद्दनम् ॥
वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते ।
वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनां उपमिद्ययन्थ ॥
गर्भो यो अपां गर्भो वनानां गर्भश्च सथातां गर्भश्चरथाम ।
अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अम्र्तः सवाधीः ॥
श्रद्धां प्रातर्हवामहे श्रद्धां मध्यन्दिनं परि ।
श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद्धापयेह नः ॥
अप तस्य हतं तमो व्यावृतः सः पाप्मना ।
सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ॥
न द्वितीयो न तृतीयश्चरुर्थो नाप्युच्यते । न पंचमो न षष्ठः सप्तमो नाप्युच्यते ।
नाष्टमो न नवमो दशमो नाप्युच्यते । स सर्वस्मै विपष्यति यच्च प्राणति यच्च न ।
तमिदं निगतं सहः स एष एक एक वृदेक एव । सर्वे अस्मिन् देवा एकवृतो भवन्ति ।
व्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम् ।
दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते ॥
य एक इत् तमु ष्टुहि कृष्टीनां विचर्षणिः ।
पति र्जज्ञे वृषक्रतुः ॥
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान ।
एकं सद् विप्रा बहुधा वदन्ति अग्निं यमं मातरिश्वानमाहुः ॥
यस्मान्न ऋते विजयन्ते जनसो यं युध्यमाना अवसे हवन्ते ।
यो विश्वस्य प्रतिमानं बभूव तो अच्युतच्युत स जनसा इन्द्रः ॥
श्रद्धां देवा यजमाना वायुगोपा उपासते ।
श्रद्धां ह्रदय्य याकूत्या श्रद्धया विन्दते वसु ॥
स पर्यगाच्छुक्रमकायमव्रण मस्नाविरं शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भू र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥
यं स्मा पृच्छन्ति कुह सेति घोरं उतेमाहुर्नैषो अस्तीत्येनम् ।
सो अर्यः षृष्टीर्विज इवामिनाति श्रदस्मै धत्तस जनास इन्द्रः ॥